आप के लिए शिवरात्रि मंगलमय हो
![Image](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhffMuWr6tx_Vwtq8Cto6ekLnRSMXH-LAMcfq2pE2v7BoLLh71E44XsDqOFDPvKqm49aatjSpzGGQcEXkY9gtslxaFEnIe3YGYI8ylOMDnii5NKihqQATLcJ0C-vNF9ePYrIYHstUFoPbZBlV3aIq7n_amZnHMcbvikZutTPILG-acY7S4klMCJLS2kKQ/w512-h640/IMG-20230218-WA0016.jpg)
आप के लिए शिवरात्रि मंगलमय हो छोटा अखबार। सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖ श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् |सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖ यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च | सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖ श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः |श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖ याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖ सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् |वाराणसीनाथमनाथनाथं श्रीविश्व